Sri Valmiki Ramayanam – Balakandam – Sargam-17


श्रीमद्वाल्मीकि रामायणम्

 

बालकाण्डम्

 

सप्तदशः सर्गः

 

ऋक्षवानरोत्पत्तिः

 


 

पुत्रत्वं तु गते विष्णौ राज्ञस्तस्य महात्मनः ।

उवाच देवताः सर्वाः स्वयंभूर्भगवानिदम् ॥ १ ॥

 

सत्यसन्धस्य वीरस्य सर्वेषां नो हितैषिणः ।

विष्णोः सहायान् बलिनः सृजध्वं कामरूपिणः ॥ २ ॥

 

मायाविदश्च शूरांश्च वायुवेगसमान् जवे ।

नयज्ञान् बुद्धिसम्पन्नान् विष्णुतुल्यपराक्रमान् ॥ ३ ॥

 

असंहार्यानुपायज्ञान् दिव्यसंहननान्वितान् ।

सर्वास्त्रगुणसंपन्नानमृतप्राशनानिव ॥ ४ ॥

 

अप्सरस्सु च मुख्यासु गन्धर्वीणां तनूषु च ।

यक्षपन्‍नगकन्यासु ऋक्षविद्याधरीषु च ॥ ५ ॥

 

किन्‍नरीणां च गात्रेषु वानरीणां तनूषु च ।

सृजध्वं हरिरूपेण पुत्रांस्तुल्यपराक्रमान् ॥ ६ ॥

 

पूर्वमेव मया सृष्टो जाम्बवानृक्षपुङ्‍गवः ।

जृम्भमाणस्य सहसा मम वक्त्रादजायत ॥ ७ ॥

 

ते तथोक्ता भगवता तत् प्रतिश्रुत्य शासनम् ।

जनयामासुरेवं ते पुत्रान् वानररूपिणः ॥ ८ ॥

 

ऋषयश्च महात्मानः सिद्धविद्याधरोरगाः ।

चारणाश्च सुतान् वीरान् ससृजुर्वनचारिणः ॥ ९ ॥

 

वानरेन्द्रं महेन्द्राभमिन्द्रो वालिनमात्मजम् ।

सुग्रीवं जनयामास तपनस्तपतां वरः ॥ १० ॥

 

बृहस्पतिस्त्वजनयत् तारं नाम महाकपिम् ।

सर्ववानरमुख्यानां बुद्धिमन्तमनुत्तमम् ॥ ११ ॥

 

धनदस्य सुतः श्रीमान् वानरो गन्धमादनः ।

विश्वकर्मा त्वजनयन्नलं नाम महाकपिम् ॥ १२ ॥

 

पावकस्य सुतः श्रीमान् नीलोऽग्निसदृशप्रभः ।

तेजसा यशसा वीर्यादत्यरिच्यत वीर्यवान् ॥ १३ ॥

 

रूपद्रविणसम्पन्नावश्विनौ रूपसम्मतौ ।

मैन्दं च द्विविदं चैव जनयामासतुः स्वयम् ॥ १४ ॥

 

वरुणो जनयामास सुषेणं नाम वानरम् ।

शरभं जनयामास पर्जन्यस्तु महाबलः ॥ १५ ॥

 

मारुतस्यौरसः श्रीमान् हनुमान् नाम वानरः ।

वज्रसंहननोपेतो वैनतेयसमो जवे ॥ १६ ॥

 

सर्ववानरमुख्येषु बुद्धीमान् बलवानपि ।

ते सृष्टा बहुसाहस्रा दशग्रीववधोद्यताः ॥ १७ ॥

 

अप्रमेयबला वीरा विक्रान्ताः कामरूपिणः ।

ते गजाचलसङ्‍काशा वपुष्मन्तो महाबलाः ॥ १८ ॥

 

ऋक्षवानरगोपुच्छाः क्षिप्रमेवाभिजज्ञिरे ।

यस्य देवस्य यद्‍रूपं वेषो यश्च पराक्रमः ॥ १९ ॥

 

अजायत समं तेन तस्य तस्य पृथक् पृथक् ।

गोलाङ्‍गूलेषु चोत्पन्‍नाः किंचिदुन्‍नतविक्रमाः ॥ २० ॥

 

ऋक्षीषु च तथा जाता वानराः किन्नरीषु च ।

देवा महर्षिगन्धर्वास्तार्क्ष्ययक्षा यशस्विनः ॥ २१ ॥

 

नागाः किंपुरुषाश्चैव सिद्धविद्याधरोरगाः ।

बहवो जनयामासुर्हृष्टास्तत्र सहस्रशः ॥ २२ ॥

 

चारणाश्च सुतान् वीरान् ससृजुर्वनचारिणः ।

वानरान् सुमहाकायान् सर्वान् वै वनचारिणः ॥ २३ ॥

 

अप्सरस्सु च मुख्यासु तथा विद्याधरीषु च ।

नागकन्यासु च तदा गन्धर्वीणां तनूषु च ।

कामरूपबलोपेता यथाकामविचारिणः ॥ २४ ॥

 

सिंहशार्दूलसदृशा दर्पेण च बलेन च ।

शिलाप्रहरणाः सर्वे सर्वे पर्वतयोधिनः ॥ २५ ॥

 

नखदंष्ट्रायुधाः सर्वे सर्वे सर्वास्त्रकोविदाः ।

विचालयेयुः शैलेन्द्रान् भेदयेयुः स्थिरान् द्रुमान् ॥ २६ ॥

 

क्षोभयेयुश्च वेगेन समुद्रं सरितां पतिम् ।

दारयेयुः क्षितिं पद्‍भ्यामाप्लवेयुर्महार्णवान् ॥ २७ ॥

 

नभस्तलं विशेयुश्च गृह्णीयुरपि तोयदान् ।

गृह्णीयुरपि मातङ्‍गान् मत्तान् प्रव्रजतो वने ॥ २८ ॥

 

नर्दमानांश्च नादेन पातयेयुर्विहङ्‍गमान् ।

ईदृशानां प्रसूतानि हरीणां कामरूपिणाम् ॥ २९ ॥

 

शतं शतसहस्राणि यूथपानां महात्मनाम् ।

ते प्रधानेषु यूथेषु हरीणां हरियूथपाः ॥ ३० ॥

 

बभूवुर्यूथपश्रेष्ठान् वीरांश्चाजनयन् हरीन् ।

अन्ये ऋक्षवतः प्रस्थानुपतस्थुः सहस्रशः ॥ ३१ ॥

 

अन्ये नानाविधाञ्छैलान् काननानि च भेजिरे ।

सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम् ॥ ३२ ॥

 

भ्रातरावुपतस्थुस्ते सर्वे च एव हरीयूथपाः ।

नलं नीलं हनूमन्तमन्यांश्च हरियूथपान् ॥ ३३ ॥

 

ते तार्क्ष्यबलसम्पन्‍नाः सर्वे युद्धविशारदाः ।

विचरन्तोऽर्दयन् सर्वान् सिंहव्याघ्रमहोरगान् ॥ ३४ ॥

 

महाबलो महाबाहुर्वाली विपुलविक्रमः ।

जुगोप भुजवीर्येण ऋक्षगोपुच्छवानरान् ॥ ३५ ॥

 

तैरियं पृथिवी शूरैः सपर्वतवनार्णवा ।

कीर्णा विविधसंस्थानैर्नानाव्यञ्जनलक्षणैः ॥ ३६ ॥

 

तैर्मेघवृन्दाचलकूटसंनिभै र्महाबलैर्वानरयूथपाधिपैः ।

बभूव भूर्भीमशरीररूपैः समावृता रामसहायहेतोः ॥ ३७ ॥

 

इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशति सहस्त्रिकायाम् संहितायां बालकाण्डे ऋक्षवानरोत्पत्तिः नाम सप्तदशः सर्गः ॥ १७ ॥

 


 

Please leave your valuable suggestions and feedback here