Sri Valmiki Ramayanam – Balakandam – Sargam-14


श्रीमद्वाल्मीकि रामायणम्

 

बालकाण्डम्

 

चतुर्दशः सर्गः

 

अश्वमेधः

 


 

अथ संवत्सरे पूर्णे तस्मिन् प्राप्ते तुरङ्‍गमे ।

सरय्वाश्चोत्तरे तीरे राज्ञो यज्ञोऽभ्यवर्तत ॥ १ ॥

 

ऋष्यशृङ्‍गं पुरस्कृत्य कर्म चक्रुर्द्विजर्षभाः ।

अश्वमेधे महायज्ञे राज्ञोऽस्य सुमहात्मनः ॥ २ ॥

 

कर्म कुर्वन्ति विधिवद् याजका वेदपारगाः ।

यथाविधि यथान्यायं परिक्रामन्ति शास्त्रतः ॥ ३ ॥

 

प्रवर्ग्यं शास्त्रतः कृत्वा तथैवोपसदं द्विजाः ।

चक्रुश्च विधिवत् सर्वमधिकं कर्म शास्त्रतः ॥ ४ ॥

 

अभिपूज्य ततो हृष्टाः सर्वे चक्रुर्यथाविधि ।

प्रातःसवनपूर्वाणि कर्माणि मुनिपुङ्‍गवाः ॥ ५ ॥

 

ऐन्द्रश्च विधिवद् दत्तो राजा चाभिषुतोऽनघः ।

मध्यन्दिनं च सवनं प्रावर्तत यथाक्रमम् ॥ ६ ॥

 

तृतीयसवनं चैव राज्ञोऽस्य सुमहात्मनः ।

चक्रुस्ते शास्त्रतो दृष्ट्‍वा तथा ब्राह्मणपुङ्‍गवाः ॥ ७ ॥

 

आह्वयाञ्चक्रिरे तत्र शक्रादीन् विबुधोत्तमान् ।

ऋष्यशृङ्‌गादयो मन्त्रैः शिक्षाक्षरसमन्वितैः ॥ ८ ॥

 

गीतिभिर्मधुरैः स्निग्धैर्मन्त्राह्वानैर्यथार्हतः ।

होतारो ददुरावाह्य हविर्भागान् दिवौकसाम् ॥ ९ ॥

 

न चाहुतमभूत् तत्र स्खलितं वा न किञ्चन ।

दृश्यते ब्रह्मवत् सर्वं क्षेमयुक्तं हि चक्रिरे ॥ १० ॥

 

न तेष्वहःसु श्रान्तो वा क्षुधितो वा न दृश्यते ।

नाविद्वान् ब्राह्मणः कश्चिन्नाशतानुचरस्तथा ॥ ११ ॥

 

ब्राह्मणा भुञ्जते नित्यं नाथवन्तश्च भुञ्जते ।

तापसा भुञ्जते चापि श्रमणाश्चैव भुञ्जते ॥ १२ ॥

 

वृद्धाश्च व्याधिताश्चैव स्त्रीबालाश्च तथैव च ।

अनिशं भुञ्जमानानां न तृप्तिरुपलभ्यते ॥ १३ ॥

 

दीयतां दीयतामन्नं वासांसि विविधानि च ।

इति सञ्चोदितास्तत्र तथा चक्रुरनेकशः ॥ १४ ॥

 

अन्नकूटाश्च दृश्यन्ते बहवः पर्वतोपमाः ।

दिवसे दिवसे तत्र सिद्धस्य विधिवत् तदा ॥ १५ ॥

 

नानादेशादनुप्राप्ताः पुरुषाः स्त्रीगणास्तथा ।

अन्नपानैः सुविहितास्तस्मिन् यज्ञे महात्मनः ॥ १६ ॥

 

अन्नं हि विधिवत्स्वादु प्रशंसन्ति द्विजर्षभाः ।

अहो तृप्ताः स्म भद्रं ते इति शुश्राव राघवः ॥ १७ ॥

 

स्वलङ्‍कृताश्च पुरुषा ब्राह्मणान् पर्यवेषयन् ।

उपासन्ते च तानन्ये सुमृष्टमणिकुण्डलाः ॥ १८ ॥

 

कर्मान्तरे तदा विप्रा हेतुवादान् बहूनपि ।

प्राहुः सुवाग्मिनो धीराः परस्परजिगीषया ॥ १९ ॥

 

दिवसे दिवसे तत्र संस्तरे कुशला द्विजाः ।

सर्वकर्माणि चक्रुस्ते यथाशास्त्रं प्रचोदिताः ॥ २० ॥

 

नाषडङ्‍गविदत्रासीन्नाव्रतो नाबहुश्रुतः ।

सदस्यास्तस्य वै राज्ञो नावादकुशलो द्विजः ॥ २१ ॥

 

प्राप्ते यूपोच्छ्रये तस्मिन् षड् बैल्वाः खादिरास्तथा ।

तावन्तो बिल्वसहिताः पर्णिनश्च तथा परे ॥ २२ ॥

 

श्लेष्मातकमयो दिष्टो देवदारुमयस्तथा ।

द्वावेव तत्र विहितौ बाहुव्यस्तपरिग्रहौ ॥ २३ ॥

 

कारिताः सर्व एवैते शास्त्रज्ञैर्यज्ञकोविदैः ।

शोभार्थं तस्य यज्ञस्य काञ्चनालङ्‍कृता भवन् ॥ २४ ॥

 

एकविंशतियूपास्ते एकविंशत्यरत्‍नयः ।

वासोभिरेकविंशद्‌भिरेकैकं समलङ्‍कृताः ॥ २५ ॥

 

विन्यस्ता विधिवत् सर्वे शिल्पिभिः सुकृता दृढाः ।

अष्टास्रयः सर्व एव श्लक्ष्णरूपसमन्विताः ॥ २६ ॥

 

आच्छादितास्ते वासोभिः पुष्पैर्गन्धैश्च पूजिताः ।

सप्तर्षयो दीप्तिमन्तो विराजन्ते यथा दिवि ॥ २७ ॥

 

इष्टकाश्च यथान्यायं कारिताश्च प्रमाणतः ।

चितोऽग्निर्ब्राह्मणैस्तत्र कुशलैः शिल्पकर्मणि ॥ २८ ॥

 

स चित्यो राजसिंहस्य सञ्चितः कुशलैर्द्विजैः ।

गरुडो रुक्मपक्षो वै त्रिगुणोऽष्टादशात्मकः ॥ २९ ॥

 

नियुक्तास्तत्र पशवस्तत्तदुद्दिश्य दैवतम् ।

उरगाः पक्षिणश्चैव यथाशास्त्रं प्रचोदिताः ॥ ३० ॥

 

शामित्रे तु हयस्तत्र तथा जलचराश्च ये ।

ऋषिभिः सर्वमेवैतन्नियुक्तं शास्त्रतस्तदा ॥ ३१ ॥

 

पशूनां त्रिशतं तत्र यूपेषु नियतं तदा ।

अश्वरत्‍नोत्तमं तत्र राज्ञो दशरथस्य ह ॥ ३२ ॥

 

कौसल्या तं हयं तत्र परिचर्य समंततः ।

कृपाणैर्विससारैनं त्रिभिः परमया मुदा ॥ ३३ ॥

 

पतत्त्रिणा तदा सार्धं सुस्थितेन च चेतसा ।

अवसद् रजनीमेकां कौसल्या धर्मकाम्यया ॥ ३४ ॥

 

होताध्वर्युस्तथोद्‍गाता हस्तेन समयोजयन् ।

महिष्या परिवृत्त्याथ वावातामपरां तथा ॥ ३५ ॥

 

पतत्रिणस्तस्य वपामुधृत्य नियतेन्द्रियः ।

ऋत्विक्परमसंपन्नः श्रपयामास शास्त्रतः ॥ ३६ ॥

 

धूमगन्धं वपायास्तु जिघ्रति स्म नराधिपः ।

यथाकालं यथान्यायं निर्णुदन् पापमात्मनः ॥ ३७ ॥

 

हयस्य यानि चाङ्‍गानि तानि सर्वाणि ब्राह्मणाः ।

अग्नौ प्रास्यन्ति विधिवत् समस्तः षोडशर्त्विजः ॥ ३८ ॥

 

प्लक्षशाखासु यज्ञानामन्येषां क्रियते हविः ।

अश्वमेधस्य यज्ञस्य वैतसो भाग इष्यते ॥ ३९ ॥

 

त्र्यहोऽश्वमेधः सङ्‍ख्यातः कल्पसूत्रेण ब्राह्मणैः ।

चतुष्टोममहस्तस्य प्रथमं परिकल्पितम् ॥ ४० ॥

 

उक्थ्यं द्वितीयं सङ्‍ख्यातमतिरात्रं तथोत्तरम् ।

कारितास्तत्र बहवो विहिताः शास्त्रदर्शनात् ॥ ४१ ॥

 

ज्योतिष्टोमायुषी चैवमतिरात्रौ च निर्मितौ ।

अभिजिद्विश्वजिच्चैवमाप्तोर्यामौ महाक्रतुः ॥ ४२ ॥

 

प्राचीं होत्रे ददौ राजा दिशं स्वकुलवर्धनः ।

अध्वर्यवे प्रतीचीं तु ब्रह्मणे दक्षिणां दिशम् ॥ ४३ ॥

 

उद्‍गात्रे तु तथोदीचीं दक्षिणैषा विनिर्मिता ।

हयमेधे महायज्ञे स्वयंभूविहिते पुरा ॥ ४४ ॥

 

क्रतुं समाप्य तु तथा न्यायतः पुरुषर्षभः ।

ऋत्विग्भ्यो हि ददौ राजा धरां तां कुलवर्धनः ॥ ४५ ॥

 

एवं दत्त्वा प्रहृष्टोऽभूच्छ्रीमानिक्ष्वाकुनन्दनः ।

ऋत्विजस्त्वब्रुवन् सर्वे राजानं गतकिल्बिषम् ॥ ४६ ॥

 

भवानेव महीं कृत्स्नामेको रक्षितुमर्हति ।

न भूम्या कार्यमस्माकं न हि शक्ताः स्म पालने ॥ ४७ ॥

 

रताः स्वाध्यायकरणे वयं नित्यं हि भूमिप ।

निष्क्रयं किञ्चिदेवेह प्रयच्छतु भवानिति ॥ ४८ ॥

 

मणिरत्‍नं सुवर्णं वा गावो यद्वा समुद्यतम् ।

तत् प्रयच्छ नृपश्रेष्ठ धरण्या न प्रयोजनम् ॥ ४९ ॥

 

एवमुक्तो नरपतिर्ब्राह्मणैर्वेदपारगैः ।

गवां शतसहस्राणि दश तेभ्यो ददौ नृपः ॥ ५० ॥

 

दशकोटिं सुवर्णस्य रजतस्य चतुर्गुणम् ।

ऋत्विजस्तु ततः सर्वे प्रददुः सहिता वसु ॥ ५१ ॥

 

ऋष्यशृङ्‍गाय मुनये वसिष्ठाय च धीमते ।

ततस्ते न्यायतः कृत्वा प्रविभागं द्विजोत्तमाः ॥ ५२ ॥

 

सुप्रीतमनसः सर्वे प्रत्यूचुर्मुदिता भृशम् ।

ततः प्रसर्पकेभ्यस्तु हिरण्यं सुसमाहितः ॥ ५३ ॥

 

जाम्बूनदं कोटिसङ्‍ख्यं ब्राह्मणेभ्यो ददौ तदा ।

दरिद्राय द्विजायाथ हस्ताभरणमुत्तमम् ॥ ५४ ॥

 

कस्मैचिद् याचमानाय ददौ राघवनन्दनः ।

ततः प्रीतेषु विधिवद् द्विजेषु द्विजवत्सलः ॥ ५५ ॥

 

प्रणाममकरोत् तेषां हर्षव्याकुलितेन्द्रियः ।

तस्याशिषोऽथ विविधा ब्राह्मणैः समुदाहृताः ॥ ५६ ॥

 

उदारस्य नृवीरस्य धरण्यां पतितस्य च ।

ततः प्रीतमना राजा प्राप्य यज्ञमनुत्तमम् ॥ ५७ ॥

 

पापापहं स्वर्नयनं दुस्तरं पार्थिवर्षभैः ।

ततोऽब्रवीदृष्यशृङ्‍गं राजा दशरथस्तदा ॥ ५८ ॥

 

कुलस्य वर्धनं तत् तु कर्तुमर्हसि सुव्रत ।

तथेति च स राजानमुवाच द्विजसत्तमः ।

भविष्यन्ति सुता राजंश्चत्वारस्ते कुलोद्वहाः ॥ ५९ ॥

 

न तस्य वाक्यं मधुरं निशम्य

प्रणम्य तस्मै प्रयतो नृपेन्द्रः ।

जगाम हर्षं परमं महात्मा

तमृष्यशृङ्‌गं पुनरप्युवाच ॥ ६० ॥

 

इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशति सहस्त्रिकायाम् सहितायां बालकाण्डे अश्वमेधः नाम चतुर्दशः सर्गः ॥ १४ ॥

 


 

Please leave your valuable suggestions and feedback here