Sri Valmiki Ramayanam – Balakandam – Sargam-12


श्रीमद्वाल्मीकि रामायणम्

 

बालकाण्डम्

 

द्वादशः सर्गः

 

अश्वमेधसम्भारः

 


 

ततः काले बहुतिथे कस्मिंश्चित् सुमनोहरे ।

वसन्ते समनुप्राप्ते राज्ञो यष्टुं मनोऽभवत् ॥ १ ॥

 

ततः प्रणम्य शिरसा तं विप्रं देववर्णिनम् ।

यज्ञाय वरयामास सन्तानार्थं कुलस्य च ॥ २ ॥

 

तथेति च स राजानमुवाच वसुधाधिपम् ।

सम्भाराः सम्भ्रियन्तां ते तुरगश्च विमुच्यताम् ॥ ३ ॥

 

सरय्वाचोत्तरे तीरे यज्ञभूमिर्विधीयताम् ।

ततो‍ऽब्रविन्नृपो वाक्यं ब्राह्मणान् वेदपारगान् ॥ ४ ॥

 

सुमन्त्रावाहय क्षिप्रमृत्विजो ब्रह्मवादिनः ।

सुयज्ञं वामदेवं च जाबालिमथ काश्यपम् ॥ ५ ॥

 

पुरोहितं वसिष्ठं च ये चान्ये द्विजसत्तमाः ।

ततः सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रमः ॥ ६ ॥

 

समानयत् स तान् सर्वान् समस्तान् वेदपारगान् ।

तान् पूजयित्वा धर्मात्मा राजा दशरथस्तदा ॥ ७ ॥

 

धर्मार्थसहितं युक्तं श्लक्ष्णं वचनमब्रवीत् ।

मम तातप्यमानस्य पुत्रार्थं नास्ति वै सुखम् ॥ ८ ॥

 

पुत्रार्थं हयमेधेन यक्ष्यामीति मतिर्मम ।

तदहं यष्टुमिच्छामि शास्त्रदृष्टेन कर्मणा ॥ ९ ॥

 

ऋषिपुत्रप्रभावेण कामान् प्राप्स्यामि चाप्यहम् ।

ततः साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन् ॥ १० ॥

 

वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखाच्च्युतम् ।

ऋष्यशृङ्‍गपुरोगाश्च प्रत्यूचुर्नृपतिं तदा ॥ ११ ॥

 

सम्भाराः सम्भ्रियन्तां ते तुरगश्च विमुच्यताम् ।

सरय्वाचोत्तरे तीरे यज्ञभूमिर्विधीयताम् ॥ १२ ॥

 

सर्वथा प्राप्स्यसे पुत्रांश्चतुरोऽमितविक्रमान् ।

यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता ॥ १३ ॥

 

ततः प्रीतोऽभवद् राजा श्रुत्वा तु द्विजभाषितम् ।

अमात्यानब्रवीद् राजा हर्षेणेदं शुभाक्षरम् ॥ १४ ॥

 

गुरूणां वचनाच्छीघ्रं सम्भाराः सम्भ्रियन्तु मे ।

समर्थाधिष्ठितश्चाश्वः सोपाध्यायो विमुच्यताम् ॥ १५ ॥

 

सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ।

शान्तयश्चाभिवर्धन्तां यथाकल्पं यथाविधि ॥ १६ ॥

 

शक्यः कर्तुमयं यज्ञः सर्वेणापि महीक्षिता ।

नापराधो भवेत् कष्टो यद्यस्मिन् क्रतुसत्तमे ॥ १७ ॥

 

छिद्रं हि मृगयन्त्येते विद्वांसो ब्रह्मराक्षसाः ।

विधिहीनस्य यज्ञस्य सद्यः कर्ता विनश्यति ॥ १८ ॥

 

तद् यथा विधिपूर्वं मे क्रतुरेष समाप्यते ।

तथा विधानं क्रियतां समर्थाः करणेष्विह ॥ १९ ॥

 

तथेति च ततः सर्वे मन्त्रिणः प्रत्यपूजयन् ।

पार्थिवेन्द्रस्य तद्वाक्यं यथाज्ञप्तमकुर्वत ॥ २० ॥

 

ततो द्विजास्ते धर्मज्ञमस्तुवन् पार्थिवर्षभम् ।

अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथागतम् ॥ २१ ॥

 

गतेषु तेषु विप्रेषु मंत्रिणस्तान् नराधिपः ।

विसर्जयित्वा स्वं वेश्म प्रविवेश महामतिः ॥ २२ ॥

 

इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशति सहस्त्रिकायाम् सहितायां बालकाण्डे अश्वमेधसम्भारः नाम द्वादशः सर्गः ॥ १२ ॥

 


 

Please leave your valuable suggestions and feedback here