Sri Valmiki Ramayanam – Balakandam – Sargam-11


श्रीमद्वाल्मीकि रामायणम्

 

बालकाण्डम्

 

एकादशः सर्गः

 

ऋश्यशृङ्गस्य अयोध्याप्रवेशः

 


 

भूय एव च राजेन्द्र शृणु मे वचनं हितम् ।

यथा स देवप्रवरः कथयामास बुद्धिमान् ॥ १ ॥

 

इक्ष्वाकूणां कुले जातो भविष्यति सुधार्मिकः ।

नाम्ना दशरथो राजा श्रीमान् सत्यप्रतिश्रवः ॥ २ ॥

 

अङ्‍गराजेन सख्यं च तस्य राज्ञो भविष्यति ।

कन्या चास्य महाभागा शान्ता नाम भविष्यति ॥ ३ ॥

 

पुत्रस्त्वङ्‍गस्य राज्ञस्तु रोमपाद इति श्रुतः ।

तं स राजा दशरथो गमिष्यति महायशाः ॥ ४ ॥

 

अनपत्योऽस्मि धर्मात्मञ्शांताभर्ता मम क्रतुम् ।

आहरेत त्वयाऽऽज्ञप्तः संतानार्थं कुलस्य च ॥ ५ ॥

 

श्रुत्वा राज्ञोऽथ तद् वाक्यं मनसा स विचिन्त्य च ।

प्रदास्यते पुत्रवन्तं शान्ताभर्तारमात्मवान् ॥ ६ ॥

 

प्रतिगृह्य च तं विप्रं स राजा विगतज्वरः ।

आहरिष्यति तं यज्ञं प्रहृष्टेनान्तरात्मना ॥ ७ ॥

 

तं च राजा दशरथो यशस्कामः कृताञ्जलिः ।

ऋष्यशृङ्‍गं द्विजश्रेष्ठं वरयिष्यति धर्मवित् ॥ ८ ॥

 

यज्ञार्थं प्रसवार्थं च स्वर्गार्थं च नरेश्वरः ।

लभते च स तं कामं विप्रमुख्याद् विशाम्पतिः ॥ ९ ॥

 

पुत्राश्चास्य भविष्यन्ति चत्वारोऽमितविक्रमाः ।

वंशप्रतिष्ठानकराः सर्वलोकेषु विश्रुताः ॥ १० ॥

 

एवं स देवप्रवरः पूर्वं कथितवान् कथाम् ।

सनत्कुमारो भगवान् पुरा देवयुगे प्रभुः ॥ ११ ॥

 

स त्वं पुरुषशार्दूल समानय सुसत्कृतम् ।

स्वयमेव महाराज गत्वा सबलवाहनः ॥ १२ ॥

 

सुमन्त्रस्य वचः श्रुत्वा हृष्टो दशरथोऽभवत् ।

अनुमान्य वसिष्ठं च सूतवाक्यं निशाम्य च ॥ १३ ॥

 

सान्तःपुरः सहामात्यः प्रययौ यत्र स द्विजः ।

वनानि सरितश्चैव व्यतिक्रम्य शनैः शनैः ॥ १४ ॥

 

अभिचक्राम तं देशं यत्र वै मुनिपुङ्‍गवः ।

आसाद्य तं द्विजश्रेष्ठं रोमपादसमीपगम् ॥ १५ ॥

 

ऋषिपुत्रं ददर्शाथो दीप्यमानमिवानलम् ।

ततो राजा यथायोग्यं पूजां चक्रे विशेषतः ॥ १६ ॥

 

सखित्वात् तस्य वै राज्ञः प्रहृष्टेनान्तरात्मना ।

रोमपादेन चाख्यातमृषिपुत्राय धीमते ॥ १७ ॥

 

सख्यं सम्बन्धकं चैव तदा तं प्रत्यपूजयत् ।

एवं सुसत्कृतस्तेन सहोषित्वा नरर्षभः ॥ १८ ॥

 

सप्ताष्टदिवसान् राजा राजानमिदमब्रवीत् ।

शान्ता तव सुता राजन् सह भर्त्रा विशाम्पते ॥ १९ ॥

 

मदीयं नगरं यातु कार्यं हि महदुद्यतम् ।

तथेति राजा संश्रुत्य गमनं तस्य धीमतः ॥ २० ॥

 

उवाच वचनं विप्रं गच्छ त्वं सह भार्यया ।

ऋषिपुत्रः प्रतिश्रुत्य तथेत्याह नृपं तदा ॥ २१ ॥

 

स नृपेणाभ्यनुज्ञातः प्रययौ सह भार्यया ।

तावन्योन्याञ्जलिं कृत्वा स्नेहात्संश्लिष्य चोरसा ॥ २२ ॥

 

ननन्दतुर्दशरथो रोमपादश्च वीर्यवान् ।

ततः सुहृदमापृच्छ्य प्रस्थितो रघुनन्दनः ॥ २३ ॥

पौरेषु प्रेषयामास दूतान् वै शीघ्रगामिनः ।

क्रियतां नगरं सर्वं क्षिप्रमेव स्वलङ्‍कृतम् ॥ २४ ॥

 

धूपितं सिक्तसम्मृष्टं पताकाभिरलङ्‍कृतम् ।

ततः प्रहृष्टाः पौरास्ते श्रुत्वा राजानमागतम् ॥ २५ ॥

 

तथा चक्रुश्च तत् सर्वं राज्ञा यत् प्रेषितं तदा ।

ततः स्वलङ्‍कृतं राजा नगरं प्रविवेश ह ॥ २६ ॥

 

शङ्‍खदुन्दुभिनिर्ह्राद्रैः पुरस्कृत्वा द्विजर्षभम् ।

ततः प्रमुदिताः सर्वे दृष्ट्‍वा तं नागरा द्विजम् ॥ २७ ॥

 

प्रवेश्यमानं सत्कृत्य नरेन्द्रेणेन्द्रकर्मणा ।

यथा दिवि सुरेन्द्रेण सहस्राक्षेण काश्यपम् । २८ ॥

 

अन्तःपुरं प्रवेश्यैनं पूजां कृत्वा च शास्त्रतः ।

कृतकृत्यं तदात्मानं मेने तस्योपवाहनात् ॥ २९ ॥

 

अन्तःपुराणि सर्वाणि शान्तां दृष्ट्‍वा तथागताम् ।

सह भर्त्रा विशालाक्षीं प्रीत्यानन्दमुपागमन् ॥ ३० ॥

 

पूज्यमाना तु ताभिः सा राज्ञा चैव विशेषतः ।

उवास तत्र सुखिता कञ्चित् कालं सहद्विजा ॥ ३१ ॥

 

इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशति सहस्त्रिकायाम् सहितायां बालकाण्डे ऋश्यशृङ्गस्य अयोध्याप्रवेशम् नाम एकादशः सर्गः ॥ ११ ॥

 


 

Please leave your valuable suggestions and feedback here